हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sundarakanda Sarga (Chapter) 38 – सुन्दरकाण्ड अष्टत्रिंशः सर्गः (३८)


॥ वायसवृत्तान्तकथनम् ॥

ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः ।
सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥ १ ॥

युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।
सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ २ ॥

स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् ।
मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥ ३ ॥

द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ।
रामादन्यस्य नार्हामि सं‍स्पर्शमिति जानकि ॥ ४ ॥

एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः ।
का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ ५ ॥

श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ।
चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥ ६ ॥

कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया ।
स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ॥ ७ ॥

लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः ।
सामर्थ्यादात्मनश्चैव मयैतत्समुदीरितम् ॥ ८ ॥

इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना ।
गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ॥ ९ ॥

यदि नोत्सहसे यातुं मया सार्धमनिन्दिते ।
अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ॥ १० ॥

एवमुक्ता हनुमता सीता सुरसुतोपमा ।
उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ ११ ॥

इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ।
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ॥ १२ ॥

तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ।
तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ॥ १३ ॥

तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु ।
विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ॥ १४ ॥

ततो मांससमायुक्तो वायसः पर्यतुण्डयत् ।
तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ॥ १५ ॥

दारयन्स च मां काकस्तत्रैव परिलीयते ।
न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ॥ १६ ॥

उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि ।
स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ १७ ॥

त्वयापहसिता चाहं क्रुद्धा संलज्जिता तदा ।
भक्षगृध्नेन काकेन दारिता त्वामुपागता ॥ १८ ॥

आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् ।
क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता ॥ १९ ॥

बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ।
लक्षिताहं त्वया नाथ वायसेन प्रकोपिता ॥ २० ॥

परिश्रमात्प्रसुप्ता च राघवाङ्केऽप्यहं चिरम् ।
पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥ २१ ॥

स तत्र पुनरेवाथ वायसः समुपागमत् ।
ततः सुप्तप्रबुद्धां मां राघवाङ्कात्समुत्थिताम् ॥ २२ ॥ [रामस्य]

वायसः सहसागम्य विददार स्तनान्तरे । [विरराद]
पुनः पुनरथोत्पत्य विददार स मां भृशम् ॥ २३ ॥

ततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः ।
वायसेन ततस्तेन बलवत्क्लिश्यमानया ॥ २४ ॥

स मया बोधितः श्रीमान्सुखसुप्तः परन्तपः ।
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा ॥ २५ ॥

आशीविष इव क्रुद्धः श्वसन्वाक्यमभाषत ।
केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ॥ २६ ॥

कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।
वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत ॥ २७ ॥

नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ।
पुत्रः किल स शक्रस्य वायसः पततां वरः ॥ २८ ॥

धरान्तरगतः शीघ्रं पवनस्य गतौ समः ।
ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः ॥ २९ ॥

वायसे कृतवान्क्रूरां मतिं मतिमतां वरः ।
स दर्भं संस्तराद्गृह्य ब्राह्मेणास्त्रेण योजयत् ॥ ३० ॥

स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ।
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ॥ ३१ ॥

ततस्तं वायसं दर्भः सोम्बरेनुजगाम तम् ।
अनुसृप्तस्तदा काको जगाम विविधां गतिम् ॥ ३२ ॥

त्राणकाम इमं लोकं सर्वं वै विचचार ह । [लोक]
स पित्रा च परित्यक्तः सुरैश्च स महर्षिभिः ॥ ३३ ॥

त्रीँल्लोकान्सम्परिक्रम्य तमेव शरणं गतः ।
स तं निपतितं भूमौ शरण्यः शरणागतम् ॥ ३४ ॥

वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ।
न शर्म लब्ध्वा लोकेषु तमेव शरणं गतः ॥ ३५ ॥

परिद्यूनं विषण्णं च स तमायान्तमब्रवीत् ।
मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ॥ ३६ ॥

हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीत् ।
ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ॥ ३७ ॥

दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ।
स रामाय नमस्कृत्वा राज्ञे दशरथाय च ॥ ३८ ॥

विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ।
मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् ॥ ३९ ॥

कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ।
स कुरुष्व महोत्साहः कृपां मयि नरर्षभ ॥ ४० ॥

त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ।
आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ॥ ४१ ॥

जानामि त्वां महावीर्यं महोत्साहं महाबलम् ।
अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् ॥ ४२ ॥

भर्तारं ससमुद्राया धरण्या वासवोपमम् ।
एवमस्त्रविदां श्रेष्ठः सत्यवान्बलवानपि ॥ ४३ ॥

किमर्थमस्त्रं रक्षस्सु न योजयसि राघवः ।
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ॥ ४४ ॥

रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ।
तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः ॥ ४५ ॥

किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ।
भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः ॥ ४६ ॥

कस्य हेतोर्न मां वीरः परित्राति महाबलः ।
यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ॥ ४७ ॥

सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।
ममैव दुष्कृतं किञ्चिन्महदस्ति न संशयः ॥ ४८ ॥

समर्थावपि तौ यन्मां नावेक्षेते परन्तपौ ।
वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् ॥ ४९ ॥

अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ।
त्वच्छोकविमुखो रामो देवि सत्येन मे शपे ॥ ५० ॥

रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ।
कथं‍चिद्भवती दृष्टा न कालः परिशोचितुम् ॥ ५१ ॥

इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते ।
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ॥ ५२ ॥

त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।
हत्वा च समरे क्रूरं रावणं सहबान्धवम् ॥ ५३ ॥

राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति ।
ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ॥ ५४ ॥

सुग्रीवो वापि तेजस्वी हरयोपि समागताः ।
इत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा ॥ ५५ ॥

उवाच शोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ।
कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ॥ ५६ ॥

तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ।
स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ॥ ५७ ॥

ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ।
पितरं मातरं चैव सं‍मान्याभिप्रसाद्य च ॥ ५८ ॥

अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ।
आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ॥ ५९ ॥

अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने ।
सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ॥ ६० ॥

पितृवद्वर्तते रामे मातृवन्मां समाचरन् ।
ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥ ६१ ॥

वृद्धोपसेवी लक्ष्मीवान् शक्तो न बहु भाषिता ।
राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ॥ ६२ ॥

मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ।
नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥ ६३ ॥

यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् ।
स ममार्थाय कुशलं वक्तव्यो वचनान्मम ॥ ६४ ॥

मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ।
यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ॥ ६५ ॥

त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम ।
राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ॥ ६६ ॥

इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ।
जीवितं धारयिष्यामि मासं दशरथात्मज ॥ ६७ ॥

ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ।
रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ॥ ६८ ॥

त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ।
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ॥ ६९ ॥

प्रदेयो राघवायेति सीता हनुमते ददौ ।
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ॥ ७० ॥

अङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः ।
मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च ॥ ७१ ॥

सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ।
हर्षेण महता युक्तः सीतादर्शनजेन सः ।
हृदयेन गतो रामं शरीरेण तु निष्ठितः ॥ ७२ ॥

मणिवरमुपगृह्य तं महार्हं
जनकनृपात्मजया धृतं प्रभावात् ।
गिरिरिव पवनावधूतमुक्तः
सुखितमनाः प्रतिसङ्क्रमं प्रपेदे ॥ ७३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टत्रिंशः सर्गः ॥ ३८ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.